देवी महलक्ष्मी की कृपा कटाक्ष कौन नहीं पाना चाहता। देवी की कृपा से घर-संसार में सम्मान मिलता है और जीवन सुख-संपत्ति युक्त हो सानन्द बीतता है । लेकिन देवी हर किसी पर अपनी कृपा करें, इसके लिए हमारे ऋशि-मुनियों ने अनेक सिद्ध स्तोत्र लिखें हैं जिनका आलंबन लेकर हर व्यक्ति देवी को प्रसन्नकर सकता है । प्रस्तुत है अगस्त्य ऋषि कृत महालक्ष्मीस्तोत्रम् , जिसके निरंतर स्तवन से भगवती महालक्ष्मीस्तोत्रम् प्रसन्न होकर याचक को वरदान देती हैं।

पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥3॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥

नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥

रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे ।
दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥

नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः ।
परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥

शरर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि-त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥

पांडित्यं शोभते नैव न शोभंति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वयाविना ॥१२॥

तावद्धिराजते रूपं तावच्छीलं विराजते ।
तावद्‍गुणां नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥

लक्ष्मि त्वयालंकृतमानवा ये पापैर्विमुक्तानृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥

लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥

लक्ष्मि त्वद्‍गुणकीर्तनेन कमलाभूर्यात्यलं जिह्नतां ।
रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमाः ।

अस्माभिस्तव रूपलक्षणगुणान्वक्तुः कथं शक्यते ।
मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥१६॥

दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायक्म कुरु ॥१७॥

मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् ।
देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्‍भुतम् ॥१८॥

त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ।
भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥१९॥

त्राहि-त्राहि महालक्ष्मि त्राहि-त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातर्दारिद्र्यात्त्राहिवेगतः ॥२०॥

नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनि ॥२१॥

दारिद्र्यार्णवामग्नोऽहं निमग्नोऽहं रसातले ।
मज्जंतं मां करे धृत्वा सुद्धर त्वं रमे द्रुतम् ॥२२॥

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अनन्मे शरण नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥

एतच्छुत्वाऽगस्तिवाक्यं ह्रष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥२४॥

     

लक्ष्मी: उवाच ।

यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
श्रृणोति च महाबागस्तस्याहं वशवर्तिनी ॥२५॥

नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥

यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।
गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिनासह ॥२७॥

सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥

इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥

राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥३०॥

न शस्त्रानलतो यौधाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥

मंदुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥

सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥

॥इति ऋषि अगस्त्यविरचितं श्रीमहालक्ष्मीस्तोत्रं संपूर्णम्॥

One response to “ऋषि अगस्त्यकृत महालक्ष्मीस्तोत्रम्”

  1. […] है। माता लक्ष्मी की कृपा पाने के लिए देवी लक्ष्मी की स्तुति और पूजा-प्रार्थना करना जरूरी है। आज हम […]

Leave a Reply

Trending

Discover more from HindiFlorets.com

Subscribe now to keep reading and get access to the full archive.

Continue reading